Complete 01 – 47
Audio
प्रस्तुतीकरण
Audio
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय |1|
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।2।
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।3।
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथ: |4|
धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: |5|
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: |6|
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते |7|
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय:
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च |8|
अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता:
नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा |9|
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् |10|
अयनेषु च सर्वेषु यथाभागमवस्थिता:
भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि |11|
तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह:
सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् |12|
तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा:
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् |13|
तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: |14|
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय:
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: |15|
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर:
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ |16|
काश्यश्च परमेष्वास: शिखण्डी च महारथ:
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित |17|
द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते
सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् |18|
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् |19|
अर्जुन उवाच
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव
हृषीकेशं तदा वाक्यमिदमाह महीपते |20|
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत |21|
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे |22|
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: |23|
सञ्जय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् |24|
भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम्
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति |25|
तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान्
आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा |26|
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् |27|
अर्जुन उवाच
कृपया परयाविष्टो विषीदन्निदमब्रवीत्
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् |28|
सीदन्ति मम गात्राणि मुखं च परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते |29|
गाण्डीवं स्रंसते हस्तात्त्वक्चै व परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: |30|
निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे |31|
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा |32|
येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानिच त
इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च |33|
आचार्या: पितर: पुत्रास्तथैव च पितामहा:
मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा |34|
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते |35|
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: |36|
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्
स्वजनं हि कथं हत्वा सुखिन: स्याम माधव |37|
यद्यप्येते न पश्यन्ति लोभोपहतचेतस:
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् |38|
कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम्|
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन |39|
कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना:
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत |40|
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय:
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: |41|
सङ्करो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: |42|
दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै:
उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: |43|
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम |44|
अहो बत महत्पापं कर्तुं व्यवसिता वयम्
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: |45|
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् |46|
सञ्जय उवाच
एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत्
विसृज्य सशरं चापं शोकसंविग्नमानस: |47|
Adhyaay 01 | Adhyaay 02 | Adhyaay 03 |
Adhyaay 04 | Adhyaay 05 | Adhyaay 06 |
Adhyaay 07 | Adhyaay 08 | Adhyaay 09 |
Adhyaay 10 | Adhyaay 11 | Adhyaay 12 |
Adhiyaay 13 | Adhyaay 14 | Adhyaay 15 |
Adhyaay 16 | Adhyaay 17 | Adhyaay 18 |
Follow Us!